SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ राणि मानसिकानि च प्रकाम-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदन, व्यसनानां च-चौर्यद्यूतादीनां यानि शतानि उपद्वाश्च-राजचौर्यादिकृतास्तैरभिभूतो यः स तथा, अत एव 'अधुवेत्ति न ध्रुवः-सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए'त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिक:-अविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्यादिभावात् , 'असासए'त्ति क्षणनश्वरत्वात् , अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह-संझे'त्यादि, किमुक्तं भवति ? इत्याह-'अणिचे'त्ति अथवा प्राग्जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह'अणिचे 'सडणपडणविडंसणधम्म त्ति शटनं-कुष्ठादिनाऽङ्गल्यादेः पतनं बाहादेः खगच्छेदादिना विध्वंसन-क्षयः एत एव धर्मा यस्य स तथा 'पुत्विं वित्ति विवक्षितकालात्पूर्व वा 'पच्छावित्ति विवक्षितकालात्पश्चाद्वा 'अवस्सविप्पजहि| यत्ति अवश्य 'विप्रजहातव्यः'त्याज्यः 'से केस णं जाणइत्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थः, 'के है पुच्विं गमणयाए'त्ति कः पूर्व पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व को वा पश्चान्नियत इत्यर्थः ॥ 'पविसिहरूवं'ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं लक्षणम् 'अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इत्यादि, व्यञ्जनं-मपतिल-४ कादिकं तयोर्यो गुणः-प्रशस्तत्वं तेनोपपेतं-सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं' उत्तमैबलवीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलं-शारीरः प्राणो वीर्य-मानसोऽवष्टम्भः सत्त्वं-चित्तविशेष एव, यदाह-"सत्त्वमवैक्लव्यकरमध्यवसानकरं च ४॥ अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्त्वं-सत्ता तेन युक्तं यत्तत्तथा 'ससोहग्गगुणसमूसियंति ससौभाग्यं गुणसमुच्छ्रितं| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy