________________
|पभट्टउत्तरिजा' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथा पतन्ति-कृशीभूतबाहत्वाद्विगलन्ति. 'खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च-भग्नानि कानिचिद्धवलवलयानि-तथाविधकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं-वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, 'मुच्छावसणट्टचयगरुइ'त्ति मूर्छावशान्नष्टे चेतसि गु/-अलघुशरीरा या सा तथा 'सुकुमालविकिन्नकेसहत्थ'त्ति सुकुमार:-स्वरूपेण विकीर्णोव्याकुलचित्ततया केशहस्तो-धग्मिल्लो यस्याः सा तथा सुकुमाला वा विकीर्णाः केशा हस्तौ च यस्याः सा तथा 'परसुनियत्तव चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निवत्तमहे व इंदलट्टित्ति निवृत्तोत्सवेवेन्द्रयष्टिः 'विमुक्कसंधि४ धण'त्ति श्लथीकृतसन्धिबन्धनाससंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिं-18 |चमाणनिववियगायलहित्ति ससम्भ्रमं व्याकुलचित्ततया अपवर्त्तयति-क्षिपति या सा तथा तया ससम्भ्रमापवर्ति| कया चेव्येति गम्यते त्वरितं-शीघ्र काञ्चनभृङ्गारमुखविनिर्गता या शीतजलविमलधारा तया परिषिच्यमाना निर्वापितास्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा, अथवा ससम्भ्रमापवर्तितया-ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवं व्याख्येयं, लुप्ततृतीयैकवचनदर्शनात् , 'उक्खेवगतालियंटवीयणगजणियवाएणं'ति उत्क्षेपको-| वंशदलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं-तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्म| मयं वीजनक तु-वंशादिमयमेवान्ताह्यदण्डं एतैर्जनितो यो वातः स तथा तेन 'सफुसिएणं'सोदकबिन्दुना 'रोय. माणी'अश्रुविमोचनात् 'कंदमाणी' महाध्वनिकरणात् 'सोयमाणी मनसा शोचनात् 'विलबमाणी' आर्तवचनकर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org