________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१
८ शतके उद्देशः१ एकादिरव्यपरिणामासू३१४
॥३३९॥
वे शेषेषु चैकैकं २ तथा तृतीय स्थाने द्वे शेषेषु चैकैकं ३ तथा चतुर्थे द्वे शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रि| यादिषु तु पञ्चसु पदेषु द्विकचतुष्कपश्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् , कथम् ?, पञ्चानां पदानां दश द्विकसंयोगा एकैकस्मिंश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तु षष्टिः, कथम् ?, पञ्चानां पदानां दश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः | दशानां च षभिर्गुणने षष्टिरिति, चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवं षट्वादिसंयोगा अपि वाच्याः, नवरं पसंयोग आरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु अवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया वेति । 'पवेसण'त्ति नवमशतकसत्कर्तृतीयोदेशके गाङ्गेयाभिधानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानि ? इत्याह-जाव असंखेज्जेति
॥३३॥
१ यद्यपि नवमे शतके द्वात्रिंशत्तमोद्देशके वक्तव्यतैषा तथाऽपि उत्पातोद्वर्तनाख्याधिकारद्वयानन्तरं प्रवेशनकस्य तृतीयस्य भावात् | द्वात्रिंशचमोद्देशकस्य तृतीये उद्देशे-विभागापरनामके इदं ज्ञेयम्.
dain Education International
For Personal & Private Use Only
www.janelibrary.org