SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यौ द्वौ तथाऽऽद्यस्य त्रित्वे द्वयोश्च | क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे | त्रयोऽन्ये इत्येवं सर्वेऽपि नव त्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति । 'जइ पओगपरिणया किं | मणप्पओगे' त्यादिना चोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितं तच्च पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं | समस्तमध्येयमिति । अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाह - ' एवं एएण' मित्यादि, एवं चाभिलापः - 'पंच भंते ! दवा किं पओगपरिणया ३१, गोयमा ! पओगपरिणया ३ अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् ?, एकं चत्वारि च १ द्वे त्रीणि च २ त्रीणि द्वे च ३ चत्वार्येकं च ४ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट् कथम् ?, त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीणि च ३ द्वे द्वे एकं च ४ द्वे एकं द्वे च ५ एकं द्वे द्वे च ६ इत्येवं षटू, 'जाव दस संजोएणं' ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्र च द्रव्यपञ्चकापेक्षया सत्यमनःप्रयोगादिषु चतुर्षु पदेषु द्विकन्त्रिकचतुष्कसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चतुर्विंशतिः २४, कथम् ?, चतुर्णी | पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः पण्णां च चतुर्भिर्गुणने [च] चतुर्विंशतिरिति, त्रिक संयोगा अपि चतुर्विंशतिः, कथम् ?, चतुर्णी पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिंश्च पूर्वोक्तक्रमेण षड् विकल्पाः, चतुर्णा च पह्निर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदौ द्वे त्रिषु चैकैकं १ तथा द्वितीयस्थाने Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy