________________
सम्भारिकस्य च भावो गुरुसम्भारिकता, गुरुता सम्भारिकता चेत्यर्थः, कर्म्मणां गुरुसम्भारिकता कर्म्मगुरुसम्भारिकता तया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्र्यं शुभकर्म्मापेक्षयाऽपि स्यादत आह-' असुभाण' मित्यादि, उदयः प्रदेशतोऽपि | स्यादत आह- 'विवागेणं' ति विपाको यथाबद्धरसानुभूतिः, स च मन्दोऽपि स्यादत आह- 'फलविवागेणं' ति फलस्येवालाबुकादेर्विपाको – विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन ॥ असुरकुमारसूत्रे 'कम्मोद एणं'ति असुरकुमारोचि - तकर्मणामुदयेन, वाचनान्तरेषु 'कम्मोवसमेणं'ति दृश्यते, तत्र चाशुभकर्म्मणामुपशमेन सामान्यतः 'कम्मविगईए'त्ति कर्म्मणामशुभानां विगत्या - विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए 'त्ति रसमाश्रित्य 'कम्मविसुद्धीए' त्ति प्रदेशापेक्षया, | एकार्था वैते शब्दा इति ॥ पृथ्वीकायिकसूत्रे 'सुभासुभाणं'ति शुभानां शुभवर्णगन्धादीनाम् अशुभानां तेषामेकेन्द्रियजात्यादीनां च । 'तप्पभिई च'त्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा 'से' त्ति असौ 'पञ्चभिजाणइ 'त्ति प्रत्यभिजानाति स्म, किं कृत्वा ? इत्याह- सर्वज्ञं सर्वदर्शिनं, जातप्रत्ययत्वादिति ॥ नवमशते द्वात्रिंशत्तमोद्देशकः ॥ ९ । ३२ ॥ [ ग्रन्थाग्रम् १०००० ]
---
गाङ्गेयो भगवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विपर्ययमप्यवाप्नोति यथा जमालिरित्येतद्दर्शनाय त्रयस्त्रिंशत्तमोद्देशकः, तस्य चेदं प्रस्तावनासूत्रम् -
तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था वन्नओ, बहुसालए चेतिए वन्नओ, तत्थ णं माह
Jain Education International
For Personal & Private Use Only
*%*%***
www.jainelibrary.org