SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ गोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः, किं कृत्वा इत्यत आह-तालमत्थकडं च णं मोहणिज्जं कट्ट'त्ति मस्तक-मस्तकशूची कृत्तं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः, छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्त इव यत्तत्तालमस्तककृत्तम् , अयमर्थः-छिन्नमस्तकतालकल्पं च मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते सति ज्ञानावरणीयादि क्षपयत्येव ? इति, अत आह'तालमत्थे'त्यादि, तालमस्तकस्येव कृत्त्व-क्रिया यस्य तत्तालमस्तककृत्त्वं तदेवंविधं च मोहनीयं 'कट्ट'त्ति इतिशब्दस्येह || | गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तकमोहनीययोश्च क्रियासाधर्म्यमेव, यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आह च-"नस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः। तद्वत्कर्मविनाशोऽपि मोहनीयक्षये नित्यम् ॥१॥"| | ततश्च कर्मरजोविकरणकर-तद्विक्षेपकम् अपूर्वकरणम्-असदृशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तं विषयानन्त्यात् अनुत्तरं सर्वोत्तमत्वात् निर्व्याघातं कटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च | ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः, इह च क्षपणाक्रमः-अणमिच्छमीससम्म अह नपुंसित्थिवे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy