SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४३५॥ स्तीति, ननु 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः १, नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति । 'वइरोसभनारायसंघयणे होज्ज' त्ति प्राप्तव्य केवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति ॥ 'सवेयए होज्ज' त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव, 'नो इत्थि | वेयए होज 'त्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् 'पुरिसनपुंसगवेयए 'ति वर्द्धितकत्वादित्वे नपुं| सकः पुरुषनपुंसकः 'सकसाई होज 'त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् 'चउसु संजलणकोहमाणमायालोभेसु होज 'त्ति स ह्यवधिज्ञानतापरिणत विभङ्गज्ञानश्चरणं प्रतिपन्नः उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सज्वलना एव क्रोधादयो भवन्तीति । 'पसत्य'त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं - प्रशस्तान्यध्यवसा यस्थानानीति । 'अणतेहिं 'ति 'अनन्तैः' अनन्तानागतकालभाविभिः 'विसंजोए 'त्ति विसंयोजयति, तत्प्राप्तियोग्यताया | अपनोदादिति । 'जाओऽविय'त्ति यापि च 'नेरइयतिरिक्खजोणियमणुस्स देवगतिनामाओ'ति एतदभिधानाः 'उत्तरपयडीओ 'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तर भेदभूताः 'तासिंच णं'ति तासां च नैरयिकगत्याद्युत्तरप्रकृतीनां | चशब्दादन्यासां च 'उवग्गहिए' त्ति औपग्रहिकान् - उपष्टम्भप्रयोजनान् अनन्तानुबन्धिनः क्रोधमानमायालोभान् क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, 'पंचविहं नाणावरणिज्जं' ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणा| वरणिज्जं 'ति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मीलनान्नवविधत्वमस्य 'पंचविहं अंतराइयं' ति दानलाभभो Jain Education International For Personal & Private Use Only ९ शतके उद्देशः ३१ अश्रुत्वाकेवलिपक्षस्य केवलं धर्माख्यानाभावः ऊर्द्धादिः सू ३६७३६८-३६९ ॥ ४३५॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy