________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४२५॥
भंते ! जंबुद्दीवे दीवे ? एवं जंबुद्दीवपन्नत्ती भाणियवा जाव एवामेव सपुधावरेणं जंबुद्दीवे २ चोदस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवतीतिमक्खाया। सेवं भंते ! सेवं भंतेति ॥ ( सू ३६२ ) ॥ नवमस्स पढमो ॥ ९-१ ॥
'कहि णं भंते' इत्यादि, कस्मिन् देशे इत्यर्थः ' एवं जंबुद्दीवपन्नत्ती भाणिय'त्ति, सा चेयम् -' के महालए णं भंते ! | जंबुद्दीवे दीवे किमागारभाव पडोयारे णं भंते! जंबुद्दीवे दीवे पन्नत्ते !" कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा ! अयन्नं जंबुद्दीवे दीवे सबदीवसमुद्दाणं सब अंतरए सबखुड्डाए वट्टे तिलपूय संठाणसंठिए वट्टे रहचक्कवाल संठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्न चंदसंठाणसंठिए पन्नत्ते एवं जोयणसयसहस्सं आयामविक्खंभेण 'मित्यादि, किम| न्तेयं व्याख्या १ इत्याह- 'जावे'त्यादि, 'एवामेव 'त्ति उक्तेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुचावरेणं' ति सह पूर्वेण नदीवृन्देनापरं सपूर्वापरं तेन 'चोद्दस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवतीति मक्खाय'त्ति इह | 'सलिलाशतसहस्राणि ' नदीलक्षाणि, एतत्सङ्ख्या चैवं - भरतैरावतयोर्गङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या सहस्रैर्युक्ताः, तथा | हरिवर्षरम्य कवर्षयोर्हरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं षट्पञ्चाशता सहस्रैर्युक्ताः समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येकं पञ्चभिर्लक्षैर्द्वात्रिंशता च सहस्रैर्युक्ते समुद्रमुपयात इति, सर्वासां च मीलने सूत्रोक्तं प्रमाणं भवति, वाचनान्तरे पुनरिदं दृश्यते - 'जहा जंबूद्दीवपन्नत्तीए तहा णेयवं जोइसविहूणं जाव-खंडा जोयण वासा पचय
Jain Education International
For Personal & Private Use Only
९ शतके
उद्देशः १ जम्बूसंग्रहणी सू. ३६२
॥४२५ ॥
www.jainelibrary.org