SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ +4+444+4 कूडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी ॥१॥ति, तत्र 'जोइसविट्ठणं'ति जंबूद्वीपप्रज्ञस्यां । ज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रं ज्ञेयं, किंपर्यवसानं पुनस्तद् ? इत्याह| 'जाव खंडे'त्यादि, तत्र 'खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात् , उच्यते, नवत्यधिक खण्ड|शतं. 'जोयण'त्ति जम्बद्वीप कियन्ति योजनप्रमाणानि खण्डानि स्यात् , उच्यते,-'सत्तेव य कोडिसया णउया छप्पनसयसहस्साई। चउणउई च सहस्सा सयं दिवटुं च साहीयं ॥१॥ गाउयमेगं पन्नरस धणुस्सया तह धणूणि पन्नरस । सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ॥ २॥ इति, गणितपदमित्येवंप्रकारस्य गणितस्य सञ्ज्ञा 'वास'त्ति जग्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पञ्चय'त्ति जम्बूद्वीपे कियन्तः पर्वताः, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयः एको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौ च देवकुरुषु, द्वौ यमकपर्वती, एतौ चोत्तरकुरुषु, द्वे शते काश्चनकानाम् , एते च शीताशीतोदयोः पार्श्वतो, विंशतिः वक्षस्काराः, चतुस्त्रिंशदीर्घविजयापर्वताश्चत्वारो वर्तुलविजया ः, एवं द्वे शते एकोनसप्तत्यधिके पर्वतानां भवतः, कूड'त्ति कियन्ति पर्वतकूटानि, उच्यते, षट्पञ्चाशद्वर्षधरकूटानि षण्णवतिर्वक्षस्कारकूटानि त्रीणि षडुत्तराणि विजयार्द्धकूटानां शतानि नव च मन्दरकूटानि, एवं चत्वारि | सप्तषष्ट्यधिकानि कूटशतानि भवन्ति, "तित्यत्ति जम्बूद्वीपे कियन्ति तीर्थानि ?, उच्यते, भरतादिषु चतुस्त्रिंशति खण्डेषु | १ सप्तैव कोटीशतानि नवतिः कोट्यः षट्पञ्चाशल्लक्षाश्चतुर्नवतिः सहस्राणि साधिकं साधं शतं च ॥१॥ गव्यूतमेकं पञ्चदशाधिकानि | पञ्चदश शतानि धषि षष्टिश्चाङ्गुलानां जम्बूद्वीपस्यैतदू गणितपदम् ॥ २॥ + 4+4+4 E Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy