________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४२१॥
तु प्रतिषेधोऽसम्भवादिति ॥ 'तिनि भंते !' इत्यादि, त्रिषु प्रदेशेष्वष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहियदा त्रयोsपि त्रिप्रदेशिक स्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः २, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्व्यणुकीभूतावेकस्तु केवल एव स्थितस्तदा 'दवाई' ति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा द्व्यणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा 'दघदेसा' इति ४, यदा तु तेषां द्वौ द्व्यणुकतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितो. द्वौ तु द्व्यणुकतया परिणम्य द्रव्यान्तरेण संबद्धौ तदा 'दवं च दवदेसे य'त्ति ५, यदा तु तेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेण संबद्धौ तदा 'दक्षं च दवदेसा यत्ति ६, यदा पुनस्तेषां द्वौ भेदेन स्थितावेकश्च द्रव्यान्तरेण संबद्धस्तदा 'दवाई च दवदेसे य'त्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेश| चतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति ॥ अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह - 'केवइया ण' मित्यादि, 'असंखेज्ज' त्ति यस्मादसत्येयप्रदेशिको लोकस्तस्मात्तस्य प्रदेशा असङ्ख्येया इति ॥ प्रदेशाधिकारादेवेदमाह - 'एग मेगस्से' त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं ?, यस्माज्जीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्र| देशप्रमाणास्त इति ॥ जीवप्रदेशाश्च प्रायः कर्म्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह
कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ?, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा - नाणावर
Jain Education International
For Personal & Private Use Only
८ शतके
उद्देशः १० अण्वादेर्द्र
व्यत्वादि लोकैकजी
वप्रदेशाः
सू ३५७. ३५८
॥४२१ ॥
www.jainelibrary.org