________________
अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च-"किश्चिद्वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् । आग-| मिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥१॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं | पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतं श्रेयः-श्रुतमपि श्रेयो | | गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुप४ कारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं, पूर्वोक्तपक्ष-5 |त्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात् , आह च-"णाणं पयासयं सोहओ तवोटू |संजमो य गुत्तिकरो। तिण्हपि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥" [ज्ञानं प्रकाशकं तपः शोधकं संयमश्च | | गुप्तिकरः। त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः॥१॥] तपःसंयमौ च शीलमेव, तथा-"संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥१॥ इति, [फलं | संयोगसिद्ध्या वदन्ति एकचक्रेण न रथः प्रयाति । वनेऽन्धः पङ्गश्च समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१॥] द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेदृष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनगाँतम ! | एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवं ?, अत्रोच्यते'एवं'मित्यादि, एवं' वक्ष्यमाणन्यायेन-'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवं असुय'ति कोऽर्थः ?, 'उवरए अवि
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org