________________
माणतोऽधिका अब
भवन्त्येवमेकस्तेषां राशिः, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्ववन्धका इत्येवं तेषां द्वितीयो राशिः, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति, द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आये समयद्वयेऽबन्धकास्तृतीये तु सर्वबन्धकाः, अयं च सर्वबन्धकानां तृतीयो राशिः, स च द्विवक्राभिधानतृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चाबन्धकानां, समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यद्यपि भवन्ति तथाऽपि सङ्ख्याप्रमाणतोऽधिका अबन्धका भवन्ति ॥ ४-५-६॥ ते चैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारण| शरीरे लोकमध्यस्थिते षड्भ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पुनर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः ते त्रिप्रतरिकाः-प्रतरत्रयादागच्छन्ति, विदिशो वक्रेणाऽऽगमनात्, प्रतरश्च वक्ष्यमाणस्वरूपः, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रदयेन चोत्पद्यमानकास्ते शेषलोकात् प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥प्रतरप्ररूपणायाह-लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः कल्प्यते, असङ्ख्येयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्य इत्यर्थः तन्मात्रबाहल्यावेव 'उड्डे'ति ऊ धोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८॥ अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षदिग्भ्यः-ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद् भवन्त्यसङ्ग्यगुणाः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्तेऽप्यसङ्ख्येयगुणा भवन्ति, कुतः?, क्षेत्रासजयगुणितत्वाद्, यतः षदिक्क्षेत्रात्रिप्रतरमसङ्ख्येयगुणं, ततोऽपि शेषलोक इति ॥९॥ ततः किम् ?
छन्ति, ये पुनसिपमानका इत्यर्थः ते
, विदिशो
SOCOCCALCOHORORECAUCLOG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org