________________
नाम तत्तथा तस्य कर्मण उदयेनेति, 'दसणपडिणीययाए'त्ति इह दर्शनं-चक्षुर्दर्शनादि, तिबदसणमोहणिज्जयाए'त्ति | तीव्रमिथ्यात्वतयेत्यर्थः 'तिवचरितमोहणिज्जयाएंति कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीयं ग्राह्य, तीव्रक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, 'महारंभयाए'त्ति अपरिमितकृष्याद्यारम्भतयेत्यर्थः, महारंभपरिग्गहयाए'त्ति अपरिमाणपरिग्रहतया कुणिमाहारेणं'ति मांसभोजनेनेति माइल्लयाए'त्ति परवञ्चनबुद्धिव(म)त्तया 'नियडिल्लयाए'निकृतिः-वञ्चनार्थ चेष्टा मायाप्रच्छादनार्थं मायान्तरमित्येके अत्यादरकरणेन परवश्चनमित्यन्ये तदत्तया, 'पगइभद्दयाए'त्ति स्वभावतः पराननुतापितया 'साणुकोसयाए'त्ति सानुकम्पतया 'अमच्छरिययाए'त्ति मत्सरिकः-परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया ॥ 'सुभनामकम्मे'त्यादि, इह शुभनाम देवगत्यादिकं कायउज्जययाए'त्ति कायर्जुकतया परावश्चनपरकायचेष्टया 'भावुज्जययाए'त्ति भावर्जुकतया परावश्चनपरमनःप्रवृत्त्येत्यर्थः, 'भामुज्जययाए'त्ति भाषर्जुकतया भाषाऽऽजवेनेत्यर्थः 'अविसंवायणाजोगेणं ति विसंवादनं-अन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धो विसंवादनयोगस्तन्निषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्त्वतीतवर्तमानलक्षणकालद्वयाश्रय इति ॥ "असुभनामकम्मेत्यादि, इह
चाशुभनाम नरकगत्यादिकम् ॥ 'कम्मासरीरप्पओगबंधे णमित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयो-5 है गबन्धप्रकरणवन्नेयं, यस्तु विशेषोऽसावुच्यते-'सवत्थोवा आउयस्स कम्मस्स देसबंधग'त्ति, सर्वस्तोकत्वमेषामायुर्ब
न्धाद्धायाः स्तोकत्वादबन्धाद्धायास्तु बहुगुणत्वात् तदबन्धकाः सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः कस्मान्नोक्काः?
otvort
565645
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org