SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ | गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृही| तमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 'सचमणे'त्यादि सद्भूतार्थचिन्तन| निबन्धनस्य मनसः प्रयोगः सत्यमनःप्रयोग उच्यते, एवमन्येऽपि, नवरं मृषा - असद्भूतोऽर्थः सत्यमृषा - मिश्रो यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा - सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसच्चे 'त्यादि, आरम्भो - जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनःप्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमना|रम्भो - जीवानुपघातः 'सारंभ'त्ति संरम्भो - वधसङ्कल्पः समारम्भस्तु परिताप इति । 'ओरालिए' त्यादि, औदारिकश| रीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वाद् काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा, 'ओरालियमिस्सासरीरकायप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् मिश्रं कार्म्मणेनेति औदारिकमिश्रं तदेवदारिकमिश्रकं तलक्षणं शरीरमौ| दारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः स औदारिक मिश्रकशरी|रकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह"जोएण कम्मएणं आहारेई अनंतरं जीवो। तेण परं मी सेणं जाव सरीरस्स निष्फत्ती ॥ १ ॥” [ उत्पत्त्यनन्तरं जीवः | कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः ( शरीरपर्याप्तिः ) तावदौदारिकमिश्रेणाहारयति ॥ १ ॥ ] एवं | तावत् कार्म्मणेनादारिकशरीरस्य मिश्रता उत्पत्तिमाश्रित्य तस्य प्रधानत्वात्, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy