________________
दिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्राप्नोतीति, सत्यमेतत्, केवल मतान्तरमेवेदमिति ॥ अनुत्तरविमान सूत्रेतु 'उक्कोसेण' मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सहयातानि सागरोपमाणि, | यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसयानीति ॥ अथं वैक्रिय शरीरदेशबन्ध - कादीनामल्पत्वादिनिरूपणायाह - 'एएसी'त्यादि, तत्र सर्वस्तोका वैक्रिय सर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽसङ्ख्येयगुणत्वात्, अबन्धका स्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयांअनन्तगुणत्वादिति ॥ अथाहारकशरीरप्रयोगबन्धमधिकृत्याह - ' आहा रे' त्यादि, 'एगागारे'ति एकः प्रकारो नौदारि .कादिवन्धवदे केन्द्रियाद्यनेकप्रकार इत्यर्थः, 'सङ्घबंधे एकं समयं ति आद्यसमय एव सर्वबन्धभावात्, 'देसबंधे जह नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं'ति, कथं १, जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात्, तत्र चान्तर्मुहूर्त्ते आद्यसमये सर्वबन्धः उत्तरकालं व देशबन्ध इति ॥ अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणा याह - ' आहारे'त्यादि, 'सङ्घबंधंतरं जनेणं अंतोमुहुत्तं ति कथं १, मनुष्य आहारकशरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तर्मुहूर्त्तमात्रं स्थित्वादारिकशरीरं गतस्तत्राप्यन्तर्मुहूर्त्त स्थितः, पुनरपि च तस्य संशयादि आहारकशरीर करणकारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति, तंत्र च प्रथमसमये सर्वथन्धक एवेति, एवं च सर्वबन्धान्तरमन्तर्मुहूर्त्त, द्वयोरप्यन्तर्मुहूर्त्तयोरेकत्वविधक्षणादिति, 'उक्कोसेणं अनंतं कालं ति;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org