________________
ततीये च समये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोव्यां क्षिप्तस्तत्पूरणार्थमेकस्त्वधिक इत्येवं 8 यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां, तच्चैवं-जघन्यमेकः समयः, कथं ?, देशबन्धको मृतः सर्व& बन्धसमयानन्तरं देशबन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्त?, कथं ?, औदारिकशरीरी देशबन्धकः सन् वैक्रियं प्रति
पन्नस्तत्रान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरी जातस्तत्र च प्रथमसमये सर्वबन्धको द्वितीयादिषु तु देशबन्धक इत्येवं देशबन्धयोरन्तर्मुहूर्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह-'जहा पंचिंदिए'त्यादि ॥ औदारिकबन्धान्तरं प्रकारान्तरेणाह-'जीवेत्यादि, एकेन्द्रियत्वे 'नोएगिदियत्तेत्ति द्वीन्द्रियत्वादौ पुनरेकेन्द्रियत्वे सति यत्सर्व| बन्धान्तरं तज्जघन्येन द्वे क्षुल्लकभवग्रहणे त्रिसमयोने, कथम् , एकेन्द्रियस्त्रिसमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धं कृत्वा तदूनं क्षुल्लकभवग्रहणं जीवित्वा मृतः अनेकेन्द्रियेषु क्षुल्लकभवग्रहणमेव जीवित्वा मृतः सन्नविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति, |'उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमन्भहियाईति, कथम् ?, अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्र च प्रथमसमये सर्वबन्धको भूत्वा द्वाविंशति वर्षसहस्राणि जीवित्वा मृतस्त्रसकायिकेषु चोत्पन्नः, तत्र च सङ्ख्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टत्रसकायिककायस्थितिमतिवाह्य एकेन्द्रियेष्वेवोत्पच सर्वबन्धको जात इत्येवं सर्वबन्धयोयथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ख्यातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति । 'देसबंधतरं जहन्नेणं खुडागं भवग्गहणं समयाहियंति, कथम् !, र
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org