________________
व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः१
८ शतके उद्देशः ९ औदारिक
बन्धः सू ३४०
॥४०॥
घृतादि गृह्णात्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्हाति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति॥'सबंध एवं समयंति अपूपदृष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, 'देसबंधे' इत्यादि, तत्र यदा वायुमनुष्यादिर्वा वैक्रियं कृत्वा विहाय च पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वनेकसमयानन्तरं म्रियते तदा जघन्यत एकं समयं देशबन्धोऽस्य भवतीति, 'उकोसेणं तिन्नि पलिओवमाइं समयऊणाईति, कथं?, यस्मादौदारिकशरीरिणां त्रीणि पल्योपमान्युत्कर्षतः स्थितिः, तेषु |च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीणि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति। एगिदियओरालिए'त्यादि, 'देसबंधे जहन्नणं एक समयंति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः पुनरौदारिकप्रतिपत्तौ। सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, 'कोसेणं बाधीस'मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिवर्षसहनाण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति ॥ 'पुढविक्काइए'त्यादि, 'देसबंधे जहन्नेणं खुदागं भवग्गहणं तिसमयऊणं'ति, कथम् !, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते-“दोलि सथाई नियमा छप्पन्नाई पमाणओ होति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥१॥ पणसठि सहस्साई पंचेव सयाई तह य छत्तीसा । खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं ॥२॥ सत्तरस भवग्गहणा खुहागा हुंति आणुपाणमि । तेरस
॥४०॥
5
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org