SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चेव सयाई पंचाणउयाई अंसाणं ॥३॥" [ यद् आवलिकाप्रमाणेन षट्पश्चाशदधिके द्वे शते नियमात् भवतः प्रमाणतः क्षुल्लकभवग्रहणमेतत् ॥१॥ पञ्चषष्टिः सहस्राणि षट्त्रिंशदधिकानि पञ्चैव शतानि तथा च क्षुल्लकभवग्रहणानि भवन्त्यन्तर्मुहुर्तेन ॥२॥ आनप्राणे सप्तदश क्षुल्लकभवग्रहणानि भवन्ति पञ्चनवत्यधिकानि त्रयोदश शतान्यशानां ( मुहूर्ताच्छासानां)॥३॥] इहोक्तलक्षणस्य ६५५३६ मुहूर्त्तगतक्षुल्लकभवग्रहणराशे,सहस्रत्रयशतसप्तकत्रिसप्ततिलक्षणेन ३७७३ मुहर्तगतोच्छासराशिना भागे हृते याल्लभ्यते तदेकत्रोच्छासे क्षुल्लकभवग्रहणपरिमाणं भवति, तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतीति, अयमभिप्रायः येषामंशानां त्रिभिः सहस्रैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुलकभषग्रहणं भवति | तेषामंशानां पश्चनवत्यधिकानि त्रयोदश शतानि अष्टादशस्यापि क्षुलकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीका|यिकस्त्रिसमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धक शेषेषु देशबन्धको भूत्वा आक्षुलकभवग्रहणं मृतः, मृतश्च सन्न४ विग्रहेणागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयास्त्रयस्तैरूनं क्षुल्लकमित्युच्यते, 'खकोसेणं बावीस'मित्यादि भावितमेवेति, 'देसबंधो जेसिं नत्थी'त्यादि, अयमर्थः-अप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदा|रिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, 'उकोसेणं जा जस्से'त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थितिः, तेजसामद होरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश, द्वीन्द्रियाणां द्वादश वर्षाणि श्रीन्द्रियाणामेकोनपश्चाशदहोरात्राणि चतु-15|| रिन्द्रियाणां षण्मासाः, तत एषां सर्वबन्धसमयोना उत्कृष्टतो देशवन्धस्थितिर्भवतीति, 'जेसिं पुणे'त्यादि, ते च वायवः ते विग्रहसमया अजोवनस्पतिकसमयो Bain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy