________________
| देशास्तेषां बन्धः समुत्पद्यत इति व्याख्येयम्, 'वीरियस जोगसद्दद्वयाए'ति वीर्य - वीर्यान्तरायक्षयादिकृता शक्ति: योगा :- मनःप्रभृतयः सह योगैर्वर्त्तत इति सयोगः सन्ति - विद्यमानानि द्रव्याणि - तथाविधपुद्गला यस्य जीवस्यासौ सद्द्रव्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्रव्यश्चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसद्द्रव्यतया, सवीर्यतया सयोगतया सद्रव्यतया जीवस्य, तथा 'पमायपच्चय'त्ति 'प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं च'त्ति कर्म्म च एकेन्द्रियजात्यादिकमुदयवर्त्ति 'जोगं च'त्ति 'योगं च' काययोगादिकं 'भवं च'त्ति 'भवं च' तिर्यग्भवादिकमनुभूयमानम् 'आउयं च 'त्ति 'आयुष्कं च' तिर्यगायुष्काद्युदयवर्त्ति 'पडुच्च' ति 'प्रतीत्य' आश्रित्य 'ओरालिए' त्यादि औदारिकशरीरप्रयोगसम्पादकं यन्नाम तददारिकशरीरप्रयोगनाम तस्य कर्म्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसद्रव्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, वीर्यसयोग| सद्रव्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्राणि वैतान्यौदारिकशरीरप्रयोगबन्धस्य कार - णानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्म्मण उदयेन ? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षित कर्मोदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञापनार्थमिति । 'एगिंदिए' त्यादौ ' एवं चेव'त्ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि 'ओरालियसरीरप्पओगनामा ए' इत्यत्र पदे 'एगिंदियओरालि यसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदारिकशरीरप्रयोग बन्धस्ये हाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति ॥ 'देसबंधेऽवि सङ्घबंधेऽवि'त्ति तत्र यथाऽपूपः स्नेहभृततततापि कायां प्रक्षिप्तः प्रथमसमये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org