SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः शतके उद्देशः ९ औदारिक बन्ध: सू३४८ ॥१९॥ प्रत्युत्पन्न:-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोगः-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नप्र| योगप्रत्ययिकः। 'नेरझ्याईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसुत्ति | भनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्तं 'समोहणमाणाणं ति समुद्धन्यमानानां समुद्घातं शरीराद्वहिर्जी| वप्रदेशप्रक्षेपलक्षणं गच्छतां 'जीवपएसाणं ति इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तात्स्थ्यात्तव्यपदेश इति न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सङ्को|चितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति 'बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले'त्यादि, | केवलिसमुद्घातेन दण्ड १ कपाट २ मथिकरणा ३ न्तरपूरण ४ लक्षणेन 'समुपहतस्य विस्तारितजीवप्रदेशस्य 'ततः' | समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादि| त्यतो विशेषमाह-'अंतरामंथे वट्टमाणस्स'त्ति निवर्त्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पञ्चमसमय इत्यर्थः, यद्यपि च | षष्ठादिसमयेषु तैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषु तु भूतपूर्वतयैवेतिकृत्वा | 'अंतरामथे वट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं बंधे समुप्पजइ'त्ति तैजसकार्मणयोः शरीरयोः 'बन्धः' सहातः समुत्पद्यते 'किं कारणं' कुतो हेतोः१, उच्यते-'ताहे'त्ति तदा समुद्घातनिवृत्तिकाले 'सेत्ति तस्य केवलिनः 'प्रदेशाः' जीव|प्रदेशाः 'एगत्तीगय'त्ति एकत्वं गता:-संघातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति प्रकृतम् , शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जइ'त्ति तैजसकार्मणाश्रयभूतत्वात्तैजसकार्मणाः शरीरिप ॥३९९|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy