________________
AGALA
उच्चयः-उर्दू चयन-राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे'त्ति सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणाबंधे'त्ति संहननं-अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, कुट्टिमाणं ति मणिभूमिकानां 'छुहाचिक्खिल्ले'त्यादौ सिलेस'त्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'महुसित्थ'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण वत्ति कचवरराशीनाम् 'उच्चएणति ऊ चयनेन 'अगडतलागनई'इत्यादि प्रायः प्राग व्याख्यातमेव, 'देससाहणणाबंधे य'त्ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देशसंहननबन्धः, 'सवसाहणणाबंधे यत्ति या सर्वेण सर्वस्य संहननलक्षणो बन्धः-सम्बन्धः क्षीरनीरादीनामिवेति सर्वसंहननबन्धः 'जन्नं सगडरहे'त्यादि, शकटादीनि | च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनर्व्याख्यायन्ते-तत्र च'सगड'त्ति गन्त्री 'रह'त्ति स्यन्दनः 'जाण'त्ति यानं-लघुगन्त्री 'जुग्ग'त्ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानं 'गिल्लित्ति हस्तिन उपरि
कोल्लरं यन्मानुषं गिलतीव थिल्लि'त्ति अडपल्लाणं 'सीय'त्ति शिबिका-कूटाकारणाच्छादितो जम्पानविशेष: 'संदमाणिलाय'त्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहित्ति मण्डकादिपचनभाजन 'लोहकडाहेति भाजनविशेष एव 'कडच्छुय'त्ति
परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः 'भंड'त्ति मृन्मयभाजनं 'मत्त'त्ति अमत्रं भाजनविशेषः 'उवगरण'त्ति नानाप्रकारं तदन्योपकरणमिति ॥ 'पुचप्पओगपचइए यत्ति पूर्व-प्राकालासेवितः प्रयोगो-जीवव्यापारो वेदनाकषायादिसमुद्घातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, 'पचुप्पन्नपओगपञ्चइए यत्ति
SAROKAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org