________________
त्रासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं द्वयोरपि शीतोष्णपरीषहयोरस्ति सम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण | तपस्विनामभावादिति । तथा 'जं समयं चरियापरीसह 'मित्यादि तत्र चर्या - प्रामादिषु संचरणं नैषेधिकी च - प्रामादिषु | प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्तत रोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूप| त्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षेर्णेकदा वेदनं प्राप्तमिति, नैवं यतो ग्रामादिगमनप्रवृत्तौ यदा कश्चिदौत्सुक्याद निवृत्ततत्परिणाम | एव विश्रामभोजनाद्यर्थमित्वरशय्यायां वर्त्तते तदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्याया असमाप्तत्वाद् आश्रयस्य चाश्रयणादिति, यद्येवं तर्हि कथं पधिबन्धकमाश्रित्य वक्ष्यति - 'जं समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसहं | वेएड' इत्यादीति ?, अत्रोच्यते, षडूविधबन्धको मोहनीयस्या विद्यमान कल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्या| यामेव वर्त्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाच्चर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाद्युगपेदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए 'त्यादीति । 'छविबंधे' त्यादि, षड्विधबन्धकस्यायुर्मो हर्जानां बन्धकस्य
१ अत एव ऋजुसूत्रादीनां संयतानामेव परीषहा इति कथने अविरतदेश विरतानां परीषदा इति पक्षरूपाभ्यां नैगमव्यवहाराभ्यां | विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदं, तथापि विंशतिपरीषहयौगपद्यप्रतिपादकसूत्रविरोधात् न तत्कल्पना, भवतु वान्येषां परस्परावि रुद्धानां समुदित उपयोगो नानयोर्द्वयोः परस्परं विरुद्धयोः, वेदनाद्वयस्य यौगपद्याभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org