SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ व्याख्या". प्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥ ३९०॥ यति' त्ति कतिषु कर्म्मप्रकृतिषु विषये परीषहाः समवतारं व्रजन्तीत्यर्थः 'पण्णापरीसहे' इत्यादि प्रज्ञापरीषहो ज्ञानावरणे| मतिज्ञानावरणरूपे समवतरति, प्रज्ञाया अभावमाश्रित्य तदभावस्य ज्ञानावरणोदयसम्भवत्वात्, यन्तु तदभावे दैन्यपरिवर्जनं | तत्सद्भावे च मानवर्जनं तच्चारित्रमोहनीयक्षयोपशमादेरिति, एवं ज्ञानपरीषहोऽपि नवरं मत्यादिज्ञानावरणेऽक्तरति, 'पंचे'त्यादिगाथा, 'पंचेव आणुपुच्ची'ति क्षुत्पिपासाशीतोष्णदंशमशकपरीपहा इत्यर्थः, एतेषु च पीडैव वेदनीयोत्था तदधिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति ॥ 'एगे दंसणपरीसहे समोयरति त्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु न भवतीत्यतस्तत्र दर्शनपरीपहः समवतरतीति, 'अरई' त्यादि गाथा, तत्र चारतिपरीषहोऽरतिमोहनीये तज्जन्यत्वात्, अचेलपरीप्रहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे रूयपेक्षया तु पुरुषपरीषहः स्त्रीवेदमोहे, तत्त्वतः ख्याद्यभिलापरूपत्वात्तस्य, नैषेधिकीपरीषहो | भयमोहे उपसर्गभयापेक्षया, याज्यापरीषहो मानमोहे तदुष्करस्वापेक्षया, आक्रोशपरीपहः क्रोधमोहे क्रोधोत्पत्यपेक्षया, | सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्त्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतस्न्तीति ॥ | 'एगे अलाभपरीसहे समोयरति त्ति अलाभपरीषह एवान्तराये समवतरति, अन्तरायं चेह लाभान्तरार्थं, तदुदय एव लाभाभावात् तदधिसहनं च चारित्रमोहनीयक्षयोपशम इति ॥ अथ बन्धस्थानान्याश्चित्य परीषद्वान् विचारयशाह'सत्तविहे 'त्यादि, सप्तविधबन्धकः - आयुर्वर्जशेषकर्म्मबन्धकः 'जं समयं सीपपरीसह मित्यादि, यस समये शीतपरीपहं वेदयते न तत्रोष्णपरीसहं, शीतोष्णयोः परस्परमत्यन्तविरोधेनैकदैकन्शासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैक Jain Education International " For Personal & Private Use Only ८ शतके | उद्देशः ८ परीषहाणां कर्मण्यवता रः सू ३४३ ॥ ३९०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy