SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ | 'अचेलपरी सहे' चेलानां - वाससामभावोऽचेलं तंच्च परीषहोऽचेलतायां जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्याकाङ्क्षायकरणेन परिषह्यमाणत्वादिति, 'अरइपरीसहे' अरतिः - मोहनीयजो मनोविकारः सा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीस हे ' स्त्रियाः परीषहः २ तत् परीषहणं च तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीसहे' 'चर्या - ग्रामनगरादिषु संचरणं तत्परिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' नैषेधिकी - स्वाध्यायभूमिः शून्यागारादिरूपा तत्परिषहणं च तत्रोपसर्गेष्वत्रासः 'सेज्जा परीस हे' शय्या - वसतिस्तत्परिषहणं च तज्जन्यदुःखादेरुपेक्षा 'अक्कोसपरीसहे' आक्रोशो- दुर्वचनं 'वह परीस हे' व्यधो वधो वा यष्ट्यादिताडनं तत्परीषहणं च क्षान्त्यवलम्बनं 'जायणापरीसहे' याज्या-भिक्षणं तत्परिषहणं च तत्र मानवर्जनम् 'अलाभपरीसहे' अलाभः - प्रतीतस्तत्परिषहणं च तत्र दैन्याभावः 'रोगपरीस हे ' रोगो - रुक् तत्परिषहणं च - तत्पीडासहनं चिकित्सावर्जनं च 'तणफासपरीसहे' तृणस्पर्श :- कुशादिस्पर्शस्तत्परिषहणं च कादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जल्लपरीस हे' जल्लो - मलस्तत्परिषहणं च देशतः सर्वतो वा स्नानोद्वर्त्तनादिवर्जनं 'सक्कारपुरक्कार परीसहे' सत्कारो - वस्त्रादिपूजा पुरस्कारो - राजादिकृताभ्युत्थानादिस्तत्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकाङ्क्षा चेति 'पण्णापरीस हे' प्रज्ञा - मतिज्ञानविशेषस्तत्परिषहणं च प्रज्ञाया अभावे उद्वेगाकरणं तद्भावे च मदाकरणं 'नाणपरीसहे' ज्ञानं-मत्यादि तत्परिषहणं च तस्य विशिष्टस्य सद्भावे मदवर्जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, 'दंसणपरी सहे' दर्शनं तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति । 'कइस कम्मपयडीसु समो · Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy