________________
४ा केवलादिः 'स्यात् भवेत् तादृशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्चित्तदानादिकं 'प्रस्थापये प्रवर्त्तयेत् न शेषैः, || आगमेऽपि षविधे केवलेनावन्ध्यबोधत्वात्तस्य, तदभावे मनःपर्यायेण, एवं प्रधानतराभावे इतरेणेति ।अथ 'नो' नैव || |चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् , 'यथा' यत्प्रकार से तस्य तत्र व्यवहत व्यादौ श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इचेएहिं'इत्यादि निगमनं सामान्येन, 'जहा जहा से | इत्यादि तु विशेषनिगमनमिति ॥ एतैर्व्यवहर्तुः फलं प्रश्नद्वारेणाह-'से कि'मित्यादि, अथ किं हे भदन्त !-भट्टारक 'आह' प्रतिपादयन्ति ? ये 'आगमबलिकाः' उक्तज्ञानविशेषबलवन्तः श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः'इच्चेयंति इत्येतद्वक्ष्यमाणं, अथवा इत्येवमिति एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'सम्म ववहरमाणे त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं ?-'सम्मति सम्यक्, तदेव कथम् ? इत्याह-'यदा २' यस्मिन् २ अवसरे 'यत्र २ |प्रयोजने वा क्षेत्रे वा यो य उचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादौ, कथम्भूतम् ? इत्याह-अनिश्रितैः-सर्वाशंसारहितैरुपाश्रितः-अङ्गीकृतोऽनिश्रितोपाश्रितस्तम् , अथवा निश्रितश्च-शिष्यत्वादि प्रतिपन्नः उपाश्रितश्चस एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ, अथवा निश्रित-रागः उपाश्रितं च-द्वेषस्ते, अथवा निश्रितं च-आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन | यथावदित्यर्थः, इह पूज्यव्याख्या-"रागो य होइ निस्सा उवस्सिओदोससंजुत्तो ॥ अहवण आहाराई दाही मझं तु एस निस्सा उ.। सीसो पडिच्छओ वा होइ उबस्सा कुलादीया ॥१॥"इति [राग भवति निक्षा उपाभितो भवति दोष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org