SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१८२॥ लतया ये ते प्रत्यनीकाः, तत्राचार्यः - अर्थव्याख्याता उपाध्यायः - सूत्रदाता स्थविरस्तु जातिश्रुतपर्यायैः, तत्र जात्या षष्टि| वर्षजातः श्रुतस्थविरः - समवायधरः पर्यायस्थविरो- विंशतिवर्षपर्यायः, एतत्प्रत्यनीकता चैवम् - " जच्चाईहिँ अवनं भासइ | वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो ॥ १ ॥ अहवावि वए एवं उवएस परस्स देति एवं | तु । दसविहवेयावच्चे कायद्य सयं न कुबंति ॥ २ ॥ [ जात्यादिभिरवर्ण भाषते न चाप्युपपाते वर्त्तते । अहितछिद्रंप्रेक्षी | प्रकाशवादी अननुलोमः ॥ १ ॥ अथवापि वदेदेवमुपदेशमेवं परस्य ददति दशविधवैयावृत्यं यत्कर्त्तव्यं स्वयं तु न कुर्वन्ति ॥ २ ॥] ' गहूं ण' मित्यादि, 'गर्ति' मानुष्यत्वादिकां प्रतीत्य तत्रेहलोकस्य - प्रत्यक्षस्य मानुपत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवद् इहलोकप्रत्यनीकः, परलोको -जन्मान्तरं तत्प्रत्यनीकः - इन्द्रियार्थतत्परः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः ॥ 'समूहण्णं भंते !' इत्यादि, 'समूहं' साधुसमुदायं प्रतीत्य तत्र कुलं - चान्द्रादिकं तत्समूहो गणः - कोटिकादिस्तत्समूहः सङ्घः, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति कुलादिलक्षणं चेदम् - " एत्थ कुलं विज्ञेयं एगायरियस्स संतई जा उ । तिन्ह कुलाण मिहो पुण सावेकखाणं गणो होइ ॥ १ ॥ सबोवि नाणदंसणचरणगुण विहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदा ओत्तिकाऊणं ॥ २ ॥" [ अत्र फुलं विज्ञेयमेकाचार्यस्य या सन्ततिः । त्रयाणां कुलानामिह सापेक्षाणां पुनर्गणो भवति ॥ १ ॥ सर्वोऽपि ज्ञानदर्शन चरणगुणविभूषितानां श्रमणानां समुदयः पुनः सङ्घो गुणसमुदाय इतिकृत्वा ] ॥ २ ॥ 'अणुकंप'मित्यादि, अनुकम्पा - भक्तपानादिभिरुप|ष्टम्भस्तां प्रतीत्य, तत्र तपस्वी - क्षपकः ग्लानो -रोगादिभिरसमर्थ: शैक्षः - अभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, Jain Education International For Personal & Private Use Only ८ शतके उद्देशः ८ गुर्वादिप्रत्य नीकाः सू ३३९ ॥१८२॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy