________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३८१॥
'ऋतं सत्यं प्रतीत्य- अष्कायादिजीवसंरक्षणं संयममाश्नित्येत्यर्थः 'देसं देसेणं वयामो' त्ति प्रभूतायाः पृथिव्या ये विवक्षिता | देशास्तैर्व्रजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतन देश परिहारतोऽचेतन देशैर्ब्रजाम इत्यर्थः, एवं 'पएसं परसेणं वयामो' इत्यपि नवरं देशो-भूमेर्महत्खण्डं प्रदेशस्तु - लघुतरमिति ॥ अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहु: - 'तुझे णं अज्जो' इत्यादि 'गप्पवायं'ति गतिः प्रोद्यते - प्ररूप्यते यत्र तद्गतिप्रवादं गतेर्वा - प्रवृत्तेः क्रियायाः प्रपातः - प्रपतनस| म्भवः प्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति ॥ अथ गतिप्रपातमेव भेदतोऽभिधातुमाह- 'कइविहे ण' भित्यादि, 'पओगगति'ति इह गतिप्रपातभेदप्रक्रमे यङ्गतिभेदभणनं तद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भणिता भवन्तीति न्यायादवसेयं तत्र प्रयोगस्य | सत्यमनःप्रभृतिकस्य पश्चदशविधस्य गतिः - प्रवृत्तिः प्रयोगगतिः, 'ततगइ 'ति ततस्य - ग्रामनगरादिकं गन्तुं प्रवृत्तत्वेन | तच्चाप्राप्तत्वेन तदन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगतिः, ततो वाऽवधिभूतग्रामा| देर्नगरादौ गतिः प्राकृतत्वेन ततगई, अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडशं प्रयोगपदं 'सेत्तं विहायगई ' एतत्सूत्रं यावद्वाच्यमेतदेवाह - 'एन्तो' इत्यादि, तच्चैवं- 'बंधणछेयणगई उववायगई विहायगई' इत्यादि, तत्र बन्धनच्छेदनगतिः - बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने -अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्बन्धनच्छेदन गतिः, उप| पातगतिस्तु त्रिविधा - क्षेत्रभवनो भवभेदात्, तत्र नारकतिर्यगूनर देवसिद्धानां यत् क्षेत्रे उपपाताय - उत्पादाय गमनं सा
Jain Education International
For Personal & Private Use Only
८ शतके उदेशः ८ गतिप्रपातः सू ३३८
॥ ३८१ ॥
www.jainelibrary.org