SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तेण'मित्यादि, तत्र 'अन्जो'त्ति हे आUः ! 'तिविहं तिविहेणं'ति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मन:|प्रभृतिकरणेन 'अदिन्नं साइजह'त्ति अदत्तं स्वदध्वे अनुमन्यध्व इत्यर्थः 'दिज्जमाणे अदिन्ने'इत्यादि दीयमानमदत्तं, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद् वर्तमानातीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति दत्तमेव दत्तमिति व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया प्रतिगृह्यमाणं ग्राहकापेक्षया | निसृज्यमानं क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः यदि दीयमानं पात्रेऽपतितं सहत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तस्येति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु 'अम्हे णं अज्जो दिजमाणे दिन्ने' इत्यादि यदुक्तं तत्र क्रियाकालनिष्ठाकाल योरभेदादीयमानत्वादेर्दत्तत्वादि समवसेयमिति । अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वाद् यूयमेवासंयतत्वादिगुणा इत्यावेदनायान्ययूथिकान् प्रति स्थविराः प्राहुः-तुझे णं अजो! अप्पणा चेवे'त्यादि, रीयं रीयमाण'त्ति 'रीतं गमनं 'रीयमाणाः'गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेचेह' पृथिवीमाक्रामथेत्यर्थः 'अभिहण ह'त्ति पादाभ्यामाभिमुख्येन हथ 'वत्तेह'त्ति पादाभिघातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेह'त्ति 'श्लेषयथ' भूम्यां श्लिष्टां कुरुथ 'संघाएहत्ति 'सङ्घातयथ' संहतां कुरुथ 'संघट्टेह'त्ति 'सङ्घयथ' स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ ४'किलामेह'त्ति कमयथ-मारणान्तिकसमुद्घातं गमयथेत्यर्थः 'उबद्दवेह'त्ति उपद्रवयथ मारयथेत्यर्थः 'कायं वत्ति 'कार्य' शरीरं प्रतीत्योच्चारादिकायकार्यमित्यर्थः 'जोगं वत्ति 'योग' ग्लानवैयावृत्त्यादिव्यापारं प्रतीत्य 'रियं वा पडुच्च'त्ति ACAGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy