________________
| करणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः, उक्तञ्च प्रज्ञापनाया& मिहार्थे-"जस्स णं जीवस्स काइया किरिया कज्जइ तस्स अहिंगरणिया किरिया नियमा कजइ, जस्स अहिंगरणिया किरिया कजइ तस्सवि काइया किरिया नियमा कजइ” इत्यादि, तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया
भवति, यदाह-"जस्स णं जीवस्स काइया किरिया कज्जइ तस्स पारियावणिया सिय कजइ सिय नो कजई" इत्यादि, || ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एवं वर्तते न तु परितापयति न चातिपातयति तदा त्रिक्रिय एवेत्यतोऽपि || | स्यात्त्रिक्रिय इत्युक्तं, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्, यदा त्वतिपातयति तदा पञ्चक्रियः, आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात् , उक्तञ्च-"जस्स पारियावणिया किरिया कन्जइ तस्स काइया नियमा कजईत्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरिय'त्ति वीतरागावस्थामा-४ श्रित्य, तस्या हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति ॥ 'नेरइए ण'मित्यादि, नारको यस्मादौदारिकशरीरवन्तं
पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात् स्यात्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, | अवीतरागत्वेन क्रियाणामवश्यंभाक्त्विादिति, 'एवं चेव'त्ति स्यात्त्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु वाच्यमित्यर्थः, 'मणुस्से जहा जीवे'त्ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधी| तत्वादिति, 'ओरालियसरीरोहिंतो'त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डका, एवमेतौ जीवस्यैकत्वेन
43235RIAT ***
Jain Education International
For Personal & Private Use Only
INinelibrary.org