SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ | मानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति, 'मणुस्सदेवाणं जहा नेरइयाणं'ति, अशून्यकालस्यापि द्वादशमुहूर्त्तप्रमाणत्वात्, अत्र गाथा - "एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा । जं निग्गयाण नेसिं भायणमन्नं तओ नत्थि ॥ १ ॥” इति । 'एयस्से' त्यादि व्यक्तम् । किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि ! इति शङ्कायां पृच्छामाह जीणं भंते! अंतकिरियं करेज्जा ?, गोयमा ! अत्थेगतिया करेज्जा अत्थेगतिया नो करेजा, अंतकिरियापयं नेयव्वं ॥ ( सू० २४ ) 'जीवे ण' मित्यादि व्यक्तं, नवरम् ' अंतकिरियं'ति अन्त्या च सा पर्यन्तवर्त्तिनी क्रिया चान्त्यक्रिया, अन्त्यस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः । ' अंतकिरियापयं नेयव्वं'ति, तच्च प्रज्ञापनायां विंशतितमं तच्चैवम्- 'जीवे णं भंते ! अंतकिरियं करेजा ?, गोयमा ! अत्थेगइए करेज्जा अत्थेगइए णो करेजा, एवं | नेरइए जाव वेमाणिए' भव्यः कुर्यान्नेतर इत्यर्थः, 'नेरइया णं भंते 1 नेरइएसु वट्टमाणे अंतं करेजा ?, गोयमा ! नो इणडे समट्ठे' इत्यादि नवरं ' मणुस्सेसु अंतं करेज्जा' मनुष्येषु वर्त्तमानो नारको मनुष्यीभूत इत्यर्थः ॥ कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह- अह भंते ! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसं० ३ अविराहियसंजमासं१ एवं-नारकवलरामराणां, तिरश्चामपि परं तिरश्चां न शून्यकालः यस्माचतो निर्गतानां तेषामन्यत्स्थानं नास्ति (अनन्तानन्तत्वात् ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy