________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ४८ ॥
| कनिर्लेपनाकालो वनस्पतिकाय स्थितेरनन्तभागे वर्त्तत इति, उक्तं च – “धोवो असुन्नकालो सो उक्कोसेण बारसमुहुत्तो । तत्तो य अनंतगुणो मीसो निल्लेवणाकालो ॥ १ ॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो । अह निल्लेवणकालो अनंतभागे वणद्धाए ॥ २ ॥ ति । 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिध्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तं च- "सुन्नो य अनंतगुणो सो पुण पायं वणस्सइगयाणं । एयं चैव य नारयभवंतरं देसियं जेई ॥ १ ॥” ति । 'तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले त्ति, स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्त| स्तथाऽपि विकलेन्द्रियसंमूच्छिमानामेवावसेयः तेषामेवान्तर्मुहूर्त्तमानस्य विरहकालस्योक्तत्वात् यदाह - “भिन्न मुहुत्तो | विगलिंदिएसु सम्मुच्छि मेसुवि स एव" एकेन्द्रियाणां तद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च - "ऍगो असंखभागो वट्ट उचट्टणोववायंमि । एगनिगोए निश्च्चं एवं सेसेसुवि स एव ॥ १ ॥” पृथिव्यादिषु पुनः 'अणुसमयमसंखेज्जत्ति वचनाद्विरहाभाव इति, 'मिस्सकाले अनंतगुणे'त्ति नारकवत्, शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्त
१- अशून्यकालः स्तोकः स उत्कृष्टेन द्वादशमुहूर्त्तः । ततश्चानन्तगुणो मिश्रो निर्लेपनाकालः ॥ १ ॥ आगमनगमनकालस्त्रसादितरुमिश्रितोऽनन्तगुणः । अथ च निर्लेपनकालोऽनन्तभागे वनकालस्य ॥ २ ॥ २ - शून्यश्चानन्तगुणः स पुनः प्रायो वनस्पतिगतानाम् । एतदेव | चोत्कृष्टं नारकभवान्तरं दर्शितं ज्येष्ठम् ( अस्ति ) ॥ ३ - विकलेन्द्रियेषु भिन्नमुहूर्त्तः संमूच्छिमेष्वपि स एव ( कालः ॥1) ४ - एकस्मिन्निगोदे एकोऽसङ्ख्यात भागो नित्यमुद्वर्त्तनोपपातयोर्वर्त्तते शेषनिगोदेष्वप्येवं स एव ( असङ्ख्याभागः ॥ )
Jain Education International
For Personal & Private Use Only
१ शतके उद्देशः २ संसारावस्थाने
शून्याशून्य विचारः
सू २३
॥ ४८ ॥
jalnelibrary.org