________________
3
एकंमिवि ता मीसो धरइ जाव एक्कोवि । निल्लेविएहिँ सबेहिं वट्टमाणेहिं सुन्नो उ ॥ १ ॥ इदं च मिश्रनारकसंसाराव| स्थानकालचिन्तासूत्रं न तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम् अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरग| मने तत्रैवोत्पत्तिमाश्रित्य यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता न स्यात्, आह च - " एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेव । जइ होज्ज तब्भवं तो अनन्तकालो ण | संभवइ ॥ १ ॥” कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्त्तन्ते, असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्त्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च|" किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि । ते ठिइकालस्संते जम्हा सबे खविज्जति ॥ १ ॥” इति । 'सव्वत्थोवे | असुन्नकाले 'ति नारकाणामुत्पादोद्वर्त्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्त्त प्रमाणत्वात्, 'मीसकाले अनंतगुणेत्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात् स च नार
१ - एतत्सूत्रं पुनस्तान् जीवान् प्रतीत्य, नैव तद्भवं, यदि तद्भवं प्रतीत्य भवेत्तदाऽनन्तकालो न संभवति ( असङ्ख्यात समयस्थितिकालात् ) ॥ १ ॥ २ - किं कारणमसम्भवे ? अस्मिन् समये ये नैरयिका आदिष्टाः स्थितिकालस्यान्ते ते सर्वे यस्मादुद्वर्त्तिप्यन्ते ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org