SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ४७ ॥ 'जीवस्स ण' मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य : इत्याह- 'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए 'ति अनादावतीते काले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य काल :- अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं - चतुर्विध उपाधिभेदादिति भावः तत्र नारकभवानुगसंसारावस्थानकालस्त्रिधा - शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च“सुन्नान्नो मीसो तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोवि ॥ १ ॥ तत्राशून्यकाल - स्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्त्तमानकाले सप्तसु पृथिवीषु ये नारका वर्त्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह च - " आइसमइयाणं नेरइयाणं न जाव एक्कोवि । उबट्टइ अन्नो वा उववज्जइ सो असुन्नो उ ॥ १ ॥ " मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्वृत्ताः यावदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा त एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति आह च - " बट्टे १ शून्योऽशून्यो मिश्रस्त्रिविधः संसारस्थान कालः । तिरश्चां शून्यवर्ण्यः शेषाणां भवति त्रिविधोऽपि ॥ १ ॥ २ आदिष्टसामयिकानां नैर| विकाणां यावदेकोऽपि नोद्वर्त्तते अन्यो बोत्पद्यते सोऽशून्य एव ॥ १ ॥ ३ - एकस्मिन्नप्यद्वृत्ते यावदेकोऽपि तिष्ठति तावन्मिश्रः । वर्त्तमानेषु सर्वेषु निर्लेपितेषु शून्यस्तु ॥ १ ॥ Jain Education International For Personal & Private Use Only १ शतके उद्देशः २ संसारावस्थानं सू२३ ॥ ४७ ॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy