SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ४५ ॥ सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः । पूर्वोक्तनवपदोपेता एव यथासम्भवं नारकादिपदात्मकाः षड् दण्डकाः सूचि - ताः । तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थे यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह - 'ओहियाण' मित्यादि, तन्त्रौधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रया | णामेको गमः - सदृशः पाठः, सलेश्यः शुक्कलेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा 'जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, | तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति, 'किण्हलेस नीललेसाणंपि | एगो गमो' औधिक एवेत्यर्थः, विशेषमाह - 'नवरं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे | " दुविहा रइया पन्नत्ता - सन्निभूया य असन्निभूया य'त्ति औघिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पादात्, 'असंण्णी खलु पढम मिति वचनात् प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह - 'मायमिच्छदिविवन्नगा ये'त्यादि, तत्र मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थितिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा- संजया ३, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहासरागसंजया य वीयरागसंज्या य, तत्थ णं जे ते सरागसंजया ते दुविहा पन्नत्ता, तंजहा पमत्तसंजया य अप्पमत्तसं१ असंज्ञी खलु प्रथमायां । Jain Education atonal For Personal & Private Use Only १ शतके उद्देशः २ लेश्यास्वाहारादिसा | म्यादिवि चारः सू२१ ॥ ४५ ॥ jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy