SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ वचनात् , अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात् संमूछिममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच्च, यच्चेह पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूछिमापेक्षया वेति ।'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरियत्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः, 'एगा| मायावत्तिय'त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कजईत्ति क्रियते-भवति कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ' इतिकृत्वाऽऽरम्भिकी स्यात् , | अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्याल्पत्वमहत्त्वे | | स्वावगाहनानुसारेणावसेये । तथा वेदनायामसुरकुमाराः 'सन्निभूया य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया | |अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते,यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भव-| न्तीत्यवसेयं, यत्तु प्रागुक्तं सज्ञिनः सम्यग्दृष्टयोऽसज्ञिनस्त्वितरे इति तद्बुद्धव्याख्यानुसारेणैवेति,ज्योतिष्कवैमानिकेषु स्वस| जिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया-मायिमिच्छदिट्ठी उववन्नगा ये' त्यादि,तत्र मायिमिथ्यादृष्टयो|ऽल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नाह-नवरं 'वेयणाए'इत्यादि ॥अथ चतुर्विंशतिदण्डक-2 मेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह-'सलेस्साणं भंते!नेरइया सव्वे समाहारग'त्ति अनेनाहारशरीरोच्छासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तनवपदोपेतनारकादिचतुवशतिपददण्डको लेश्यापदविशेषितः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy