________________
M
१ शतके उद्देशः लेश्याविचा रः सू २१
व्याख्या
णियडयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः, 'से तेणडेणं समकिप्रज्ञप्तिः लारिय'त्ति निगमनं, 'जाव चउरिंदिय'त्ति, इह महाशरीरत्वमितरच स्वस्वावगाहनाऽनुसारेणावसेयम् , आहारश्च द्वीन्द्रिअभयदेवी- यादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहा नेरइय'त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णया वृत्तिः यामाहारयन्ति उच्छसन्ति चेति यदुच्यते तत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां
प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहारोच्छ्रासयोः कादाचित्कत्वं वचनप्रामाण्यादिति, लोमा॥४४॥
हारापेक्षया तु सर्वेषामप्यभीक्ष्णमिति घटत एव, अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारोच्छासयो| रभवनेन पर्याप्तकवे च. तद्भावेनावसेयमिति ॥ तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदायु
कादितद्भववेद्यकर्मापेक्षयाऽवसेयम् ॥ तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुभवर्णादि बाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा 'संजयासंजय'त्ति देशविरताः स्थूलात् प्राणातिपाता|देनिवृत्तत्वादितरस्मादनिवृत्तत्वाच्चेति । 'मणुस्सा जहा नेरइय'त्ति तथा वाच्या इति गम्यं, 'नाणतंति नानात्वं भेदः ४ पुनरयं, तत्र 'मणुस्सा णं भंते ! सवे समाहारगा इत्यादि प्रश्नः, 'नो इणढे समहे' इत्याद्युत्तरं 'जाव दुविहा मणुस्सा |पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं 'परिणामेंति ऊससंति नीससंति' ॥ इह स्थाने नारकसूत्रे 'अभिक्खणं आहारेंतीत्यधीतम् , इह तु 'आहच्चे'त्यधीयते, महाशरीरा हि देवकुर्वादिमिथुनकाः, ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अहमभत्तस्स आहारों'त्ति
ONSCREECHESHARMUSLMS
॥४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org