SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ वैभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन वाच्याः॥ 'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा नेरइयाणं'ति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामङ्गलासमयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् इतरच्चेत आगमवचनादवसेयम् 'पुढविक्काइयस्स ओगाहणठ्याए चउहाणवडिए'त्ति, ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति(न्ति) उच्छृसन्ति च अभीक्ष्णं महाशरीरत्वादेव,अल्पशरीराणामल्पाहारोच्छ्रासत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवी| कायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव,वेदनाक्रिययोस्तु नानात्वमत एवाह-'असन्नित्ति मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूय'त्ति असज्ञिभूता असज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति-'अणिदाए'त्ति अनिर्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्यादृष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूच्छितादिवदिति भावना। 'माईमिच्छादिहित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो ॥१॥"त्ति, ततस्ते मायिन उच्यन्ते, अथवा माये-||६|| हानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं है। ४ १ पृथ्वीकायिकः पृथ्वीकायिकस्य शरीरापेक्षया चतुःस्थानपतितः ( अनन्तभागानन्तगुणवज्र्थे ) ॥२ उन्मार्गदेशको मार्गनाशको है गूढहृदयो मायावी । शठस्वभावः सशल्यश्च जीवस्तिर्यगायुर्बध्नाति ॥ १ ॥ Jain Education.in For Personal & Private Use Only omjanelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy