________________
तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थिति रकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ॥ एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति ॥ 'समवेयण'त्ति 'समवेदना'। समानपीडाः 'सन्निभूय'त्ति सञ्ज्ञा-सम्यग्दर्शनं तद्वन्तः सञ्जिनः सज्ञिनो भूताः-सज्ञित्वं गताः सज्ञिभूताः, अथ| वाऽसज्ञिनः सज्ञिनो भूताः सज्ञिभूताः, विप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् , तेषां चपूर्वकृतकर्मविपाकमनुस्मरतामहो महदुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदहत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महदुःखं मानसमुपजायतेऽतो महावेदनास्ते, अस| ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये वाहुः-सज्ञिनः-सज्ञिपश्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सज्ञिभूताः, ते महावेदनाः, तीब्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात् , असज्ञिभूतास्त्वनुभूतपूर्वासज्ञिभवाः,तेचासञ्जित्वादेवात्यन्ताशुभाध्यवसायाभावा
१ सायभावात् प्र०
dan Education
For Personal & Private Use Only
nelibrary.org