________________
S
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१]
शतके उद्देशः २ समशरीरादिसू२१
॥४१॥
पुद्गलानुसारित्वात्परिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः। तथा 'बहुतराए पोग्गले उस्ससंति'त्ति उच्छासतया गृह्णन्ति, 'निस्ससंति'त्ति निःश्वासतया विमुश्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छरीरस्तजातीयेतरापेक्षया बहूच्छासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छ्रसन्तीति । तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारैति'त्ति, अभीक्ष्णं-पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणं उससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छ्रासादि कुर्वन्तीति ॥ तथा-(तत्थ णं) जे ते'इत्यादि, ये ते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारैति'त्ति ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव 'आहच आहारैति'ति, कदाचि. दाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, 'आहच ऊससंति नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य-कदाचित् सान्तरमित्यर्थः उच्छ्रासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकाले|ऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति अपर्याप्तकत्वेन च नोच्छ्सन्ति, अन्यदा त्वाहारयन्ति उच्छसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छ्रसन्तीत्युक्तं, 'से तेणटेणं गोयमा! एवं वुच्चइ-नेरइया सब्वे नो समाहारे'त्यादि निगमनमिति ॥ समकर्मसूत्रे-'पुचोववन्नगाय पच्छोववनगा यत्ति 'पूर्वोत्पन्नाः' प्रथमतरमुत्पन्नास्तदन्ये
ACAASALASS
॥४१॥
Jain Education inA
For Personal & Private Use Only
Bhelibrary.org