________________
व्याख्या
प्रज्ञप्तिः अभवदेवीया वृत्तिः १
॥ ३८ ॥
Jain Education l
दुक्खेणं दो दंडगा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया एगत्तेणं जाव वेमाणिया पुहुत्तणवि तहेव ॥ ( सू० २० )
'रायगिहे' इत्यादि पूर्ववत्, 'जीवे ण' मित्यादि तत्र 'सयंकडं दुक्खं 'ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः स्वयंकृतमिति पृच्छति स्म 'दुक्खं 'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् 'दुःखं' कर्म वेदयतीति, काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्ण, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमध्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म " कडाण कम्माण ण मोक्खो अत्थि” इति वचनादिति । एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्- 'नेरइए णं भंते ! सयंकड'मित्यादि । एवमेकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्- 'जीवा णं भंते ! सयंकडं दुक्खं वेदेंती'त्यादि तथा 'नेरइयाणं भंते ! सयंकडं दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्न १ इति, अत्रोच्यते, क्वचिद्वस्तुनि एकत्वबहुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एक जीव|माश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवे - | दिति शङ्कायां बहुत्वप्रश्नो न दुष्टः अच्युत्पन्नमतिशिष्यन्युत्पादनार्थत्वाद्वेति ॥ अथायुःप्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् - एतस्य चेयं वृद्धोक्तभावना - यदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषा तृती१ कृतानां कर्मणां मोक्षो नैवास्ति ॥
For Personal & Private Use Only
१ शतके उद्देशः २ कर्मायुर्वेदनावेद नं सू २०
॥ ३८ ॥
nelibrary.org