________________
गाढतरप्रकृतिबन्धहेतुत्वात् , आह च-"जोगा पयडिपएस"ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा इस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात् , आह च-"ठिईमणुभागं कसायओ कुणइ"त्ति । तथा 'मंदाणुभावेत्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावा:-परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृत| त्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे'त्यादि, अल्प-स्तोकं प्रदेशाग्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चेत्यादि, आयुः पुनः कर्म स्यात् कदाचिनाति स्यात् कदाचिद् न बनाति, यस्मात्रिभागा-|| द्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा विभागादिस्तदा बनाति, अन्यदा न बनातीति, तथा 'असाए'त्यादि असातवेदनीयं च-दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसप्तकान्तवर्ति-| | त्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्रहणेन ? इति,अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइयंति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणस्वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम् , अणं वाऽणक-पापमतिशयेनेतं-गतमणातीतम् , 'अणवयग्गंति, 'अवयग्गं ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम् , अनन्तमि
१ योगात्प्रकृतिप्रदेशबन्धौ ।। २ कषायतः स्थित्यनुभागबन्धं करोति ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org