SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३४ ॥ Jain Education *++++ अणवदग्गं दीहम चाउरंत संसारकंतारं वीइवयह, से एएणद्वेणं गोयमा ! एवं वुच्चइ - संवुडे अणगारे सिज्झइ जाव अंतं करेइ ॥ ( सू० १८ ) 'असंबुडे ण' मित्यादि व्यक्तं, नवरम् 'असंवुडे णं'ति 'असंवृतः' अनिरुद्धाश्रव द्वार : 'अणगारे 'त्ति अविद्यमानगृहः, साधुरित्यर्थः 'सिज्झइ 'त्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति 'बुज्झइ 'त्ति स एव यदा समुत्प| नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चइ' त्ति स एव संजातकेवलबोधो भवोपग्राहिकम्र्म्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिब्वाइ'त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते 'सव्वदुक्खाणमंतं | करेइ'त्ति स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकर्माशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः, उत्तरं तु कण्ठ्यं, नवरं 'नो इणट्टे समट्ठे' त्ति 'नो' नैव 'इणट्ठे' त्ति 'अयम्' अनन्तरो कत्वेन प्रत्यक्षः 'अर्थ:' भावः 'समर्थ' बलवान्, वक्ष्यमाणदूषण मुद्गरप्रहारजर्जरितत्वात्, 'आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति 'सिढिलबंधणबद्धाओ' त्ति श्लथबन्धनं स्पृष्टता वा बद्धता वा निघत्तता वा तेन बद्धाः -- आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायाम शुभतरपरिणामस्य कथञ्चिदभावादिति शिथिल बन्धन बद्धाः, एताञ्चाशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह - 'घणियबंधणबद्धाओ पकरेंति'त्ति गाढतरबन्धना बद्धाविस्था वा निघत्तावस्था वा निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकर्मार्थत्वात्कर्त्तुमारभते, असंवृतत्वस्याशुभ योगरूपत्वेन For Personal & Private Use Only १ शतके असंवृतेतर सिद्ध्यादिः सू १८ ॥ ३४ ॥ Sainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy