________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ३५ ॥
त्यर्थः अथवाऽवनतम् - आसन्नमग्रम् - अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम्, एतदेव वर्णनाशादव नता (नवता)ग्रमिति, अथवाऽनवगतम् - अपरिच्छिन्नमग्रं - परिमाणं यस्य तत्तथा, अत एव 'दीहमर्द्ध' ति 'दीर्घाद्धं' दीर्घकालं 'दीर्घाध्वं वा' दीर्घमार्ग 'चाउरंत 'न्ति चतुरन्तं - देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभागं तदेव स्वार्थिकाणूप्रत्ययोपादानाचातुरन्तं 'संसारकंतारं 'ति भवारण्यम् 'अणुपरियह' त्ति पुनः पुनभ्रमतीति ॥ असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह - 'संबुडे ण' मित्यादि व्यक्त, नवरं संवृतः - अनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रं यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणा सं| वृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्य पारम्पर्यं तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति - ' जहन्नियं चरिताराहणं आराहित्ता | सत्तट्ठभवग्गहणेहिं सिज्झइ 'त्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद् विराधना फलत्वातस्येति, 'वीइवयह'त्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः ॥ अनगारः संवृतत्वात्सिध्यतीत्युक्तं, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह -
जीवे णं भंते ! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ हुए पेच्चा देवे सिया !, गोयमा ! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया । से केणट्टेणं जाव इओ चुए पेच्चा अस्थेगइए देवे सिया अत्थे - गइए नो देवे सिया ?, गोयमा ! जे इमे जीवा गामागरनगर निगमराय हाणि खेडकब्बडमडंबदोणमुहपट्टणा
Jain Education International
For Personal & Private Use Only
१ शतके असंवृतासिद्ध्यादिः सू १८
।। ३५ ।।
www.jainelibrary.org