________________
व्याख्यामज्ञप्तिः अभयदेवीयावृत्तिः
'इहभविए'इत्यादि व्यक्त, नवरम्-इह भवे-ग्रन्थानम् १०००) वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदैह
१ शतके भविक, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविक ज्ञानमुत 'परभविए'त्ति परभवे-वर्तमानानन्तरभाविन्यनुगामि
ऐहभाविक
ज्ञानादि |तया यद्वर्त्तते तत्पारभविकम् , आहोश्वित् 'तदुभयभविए'त्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्तते
सू१७ तत्तदुभयभविकम् , इदं चैवं न पारभषिकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्राह्यम् , इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात् , इस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगम, नवरम् ‘इहभविए' |त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे परतरभवे चानुवर्तत इति । 'दसणंपि एवमेव'त्ति, दर्शनमिह सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात् , यदाह| "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (तत्त्वा० अ-१ सू-१), यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति, 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य, किञ्च|चारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्र-14
संभवाभावात् , चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिञ्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्य| स्थाश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद , अत एवोच्यते-'सिद्धे नोचरित्ती नोअचरित्ती' 'नो अचरित्तीति चाविरतेरभावादिति । अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपःसंयमभेदादिति, तयोर्निरूपणायातिदेश
॥२२॥
JainEducation International
For Personal & Private Use Only
www.jainelibrary.org