SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'एगइय'त्ति एकका एके केचनेत्यर्थः जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनार्थो वा, एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहि-कदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह-'सेकेणटेणं'ति | | अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'त्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य । हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं पडुच्च'त्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरणम् , अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-"पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडि | लेहणापमत्तो छण्हंपि विराहओ होइ ॥१॥" तथा "संबो पमत्तजोगो समणस्स उ होइ आरंभो" त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरई पड्डुच'त्ति, इहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां 5 नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरति १ प्रतिलेखनाप्रमत्तः (कुम्भकारशालादिस्थितः ) पृथिव्यप्तेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति ॥१॥ २ श्रमणस्य तु ★ सर्वः प्रमत्तयोग आरम्भो भवति ॥ रोधिवचनतयात्यः, 'दुविहा पनसभा वेत्यादि । अत एव नो अना AAAAAAAAAAAAACARA हि शुभोऽशुभश्च योगः स्यात मनतापत्तिः, पाटलीपुत्रस्वरूपात अनेन समस्तसर्वविदा मना-सेकेणद्वेणं 'ति । Jain Education H am For Personal & Private Use Only mm.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy