________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः ॥३०॥
शतके उद्देशः ७ दुष्षमदुष्पमारकासू | २८७
णिजोदग'त्ति अपातव्यजलाः 'अजवणिज्जोदए'त्ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योघा- तिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते| तथाऽत एवामनोज्ञापनीयकाः 'चंडानिलपहयतिक्खधारानिवायपउति चण्डानिलेन प्रहतानां तीक्ष्णानां- वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पयगवेलए'त्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरधाः 'खहयरे'त्ति खचरांश्च, कान् ? इत्याह-पक्खिसंघेत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यःप्रचारस्तत्र निरता येते तथा तान् , कान् ? इत्याह'तसे पाणे बहुप्पयारे'त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाः-वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता-अशोकलतादयः वल्यो-वालुङ्कीप्रभृतयः तृणानि-वीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानिदूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः-पल्लवाङ्कुराः अङ्कुराः-शाल्यादिबीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-तण|वणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वता:-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वे
॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org