________________
४ भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भभाभूतः, भम्भा वा-भेरी सा चान्तः शून्या | है ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'त्ति कोलाहल इहार्तशकुनिसमूहध्वनिस्तं
भूतः प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफरुसधूलिमइल'त्ति खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुविसहत्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा | इत्यर्थः 'संवट्टय'त्ति तृणकाष्ठादीनां संवर्तकाः 'इह'त्ति अस्मिन् काले "अभिक्खं ति अभीक्ष्णं 'धूमाहिति य दिसं'त्ति
धूमायिष्यन्ते-धूममुद्भमिष्यन्ति दिशः, पुनः किंभूतास्ताः ? इत्याह-'समंता रउस्सल'त्ति समन्तात्-सर्वतो रज४ स्वला-रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमःपटलेन
अन्धकारवृन्देन निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ण' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति स्रक्ष्यन्ति 'अदुत्तरं च'त्ति अथापरं च 'अरसेमह'त्ति अरसा-अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा 'विरसमेह'त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते-'खारमेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवदाहकारिजला इत्यर्थः 'विजुमेह'त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'विसमेह'त्ति जन| मरणहतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अप्पव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org