________________
या'इत्यादि, प्राग्वच्च व्याख्येयमिति । एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रमिवाप्कायिकादिसूत्राणि समानीत्युक्त, स्थिती पुनर्विशेषोऽत एवाह-नवरं 'ठिई वण्णेयव्वा जा जस्स'त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्त्तम् , उत्कृष्टा त्वां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण-"बावीसाइं सहस्सा १ सत्त सहस्साई २ तिनिहोरत्ता ३ । वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ ॥१॥"ति । 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाएं'त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश
वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमइए अंतोमुहुत्तिए लवेमायाए आहारट्टे समुप्पज्जइ'त्ति, तस्यायमर्थः-असङ्ख्यातसामयिक आहारकालो भवति, स चावसर्पिण्यादिरूपोऽप्य-||
स्तीत्यत उच्यते-आन्तमौहर्तिकः, तत्रापि विमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्ख्येयभेदत्वादिति । 'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमहारे पक्खेवाहारे य'त्ति, तत्र लोमाहारः खल्वोघतो वर्षादिषु यः पुद्गलप्रवेशः स मूत्राद्गम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसौम्याभ्याम् , अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए गिण्हती'त्यादि 'अणेगाइं च णं भागसहस्साईति असङ्ख्येया भागा इत्यर्थः, 'अणासाइजमाणाईति रसनेन्द्रियतः 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः 'कयरें'इत्यादि यत्सदं तदेवं दृश्यम्-'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सव्वत्थोवा
१ द्वाविंशतिः सहस्राणि सप्त सहस्राणि त्रीण्यहोरात्राणि । वायौ त्रीणि सहस्राणि वृक्षे दश वर्षसहस्राणि ॥ १ ॥
JainEducation
For Personal & Private Use Only
||A
lainelibrary.org