________________
ARSARASHTRA
अप्युत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद्वहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्ख्यातगुणत्वं भवति, अत एवाह-'उत्तरगुणपच्चक्खाणी असंखेजगुण'त्ति, 'अपच्चक्खाणी अणंतगुण'त्ति मनुष्यपञ्चेन्द्रियतिर्यश्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति । मनुष्यसूत्रे 'अपच्चक्खाणी असंखेजगुणे'ति यदुक्तं तत्संमूर्छिममनुष्यग्रहणेनावसेयमितरेषां | सङ्ख्यातत्वादिति । 'एवं अप्पाबहुगाणि तिन्निवि जहा पढमिल्लए दंडए'त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियति|रश्चां, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'नवर'मित्यादि, 'पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय |उक्ता एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, || देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति ॥ मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति
संयतादिसूत्रम्-'तिनिवि'त्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयं, तच्चैवम्-'नेरइया णं भंते ! किं संजया असंजया संजयासंजया ?, गोयमा ! नो संजया| | असंजया नो संजयासंजये'त्यादि । 'अप्पा'इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं 'तिण्हवित्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ख्यगुणाः, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताः असंयता असङ्ख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org