________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२९२॥
अप्रेम 'कोहकिलामं' ति क्रोधात्कुमः - शरीरायासः क्रोधक्कुमोडतस्तं, 'गुणुप्पायणहेउ' ति रसविशेषोत्पादनायेत्यर्थः, वीइंगालस्स'त्ति वीतो गतोऽङ्गारो-रागो यस्मात्तद्वीताङ्गारं 'खेत्ताइकंतस्स' त्ति क्षेत्रं - सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य, 'काला इतस्स' त्ति कालं - दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, 'मग्गाइकंतस्स' त्ति अर्द्ध योजनमतिक्रान्तस्य 'पमाणाइकंतस्स'त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, 'उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'वीतिकमावेत्त 'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः, 'कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत् प्रमाणं - मानं तत् परिमाणं - मानं येषां ते तथा, अथवा कुकुटीव- कुटीरमिव जीवस्याश्रयत्वात् कुटी- शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं - उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा - द्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः - यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया | कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्ध कवल चतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोप| पन्ना स्यात्, न हि स्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । 'अप्पाहारे' त्ति अल्पाहारः साधुर्भवतीति गम्यम्, अथवाऽष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारम् ' आहारयति' कुर्वति साधी 'अल्पाहारः' स्तोकाहारः, चतुर्थीशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं ससम्येकवचनान्तं वा व्याख्येयम् । 'अवडोमोयरिय'त्ति अवमस्य - ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं - किञ्चिदू
Jain Education International
For Personal & Private Use Only
७ शतके उद्देशः १ सकषायस्य
सांपरायि
की साङ्गारा
देरर्थः क्षेत्रा तिक्रान्तादे
रर्थः सू२६७ |२६८-२६९
॥२९२॥
w.jainelibrary.org